नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् |  किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद्गहनं गभीरम् ॥ १॥   न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः |  आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किञ्चनास ॥२॥   तम आसीत्तमसा गूहळमग्रे प्

नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् |  किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद्गहनं गभीरम् ॥ १॥   न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः |  आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किञ्चनास ॥२॥   तम आसीत्तमसा गूहळमग्रे प्रकेतं सलिलं सर्वाऽइदम् |  तुच्छ्येनाभ्वपिहितं यदासीत्तपसस्तन्महिनाजायतैकम् ॥३॥   कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत् |  सतो बन्धुमसति निरविन्दन्हृदि प्रतीष्या कवयो मनीषा ॥४॥   तिरश्चीनो विततो रश्मिरेषामधः स्विदासीदुपरि स्विदासीत् |  रेतोधा आसन्महिमान आसन्त्स्वधा अवस्तात्प्रयतिः परस्तात् ॥५॥   को अद्धा वेद क इह प्र वोचत्कुत आजाता कुत इयं विसृष्टिः |  अर्वाग्देवा अस्य विसर्जनेनाथा को वेद यत आबभूव ॥६॥   इयं विसृष्टिर्यत आबभूव यदि वा दधे यदि वा न |  यो अस्याध्यक्षः परमे व्योमन्त्सो अङ्ग वेद यदि वा न वेद ॥७॥